|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.236. अध्यायः 236
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेणोमांप्रति तिलदानप्रकारतत्फलयोः कथनम्॥ 1 ॥ तथा जलान्नादिनानादानफलकथनम्॥ 2 ॥ तथा सेतुकूपतटाकनिर्मापणादिधर्मफलकथनम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्देवदेवेश कथं देयं तिलान्वितम्।
तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च॥ 13-236-1(90751)
महेश्वर उवाच। 13-236-2x(7644)
तिलकल्पविधिं देवि तन्मे शृणु समाहिता॥ 13-236-2(90752)
समृद्धैरसमृद्धैर्वा तिला देया विशेषतः।
तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः॥ 13-236-3(90753)
न्यायतस्तु तिलाञ्शुद्धान्संहृत्याथ स्वशक्तिनः।
तिलराशिं पुनः कुर्यात्पर्वाताभं सुरस्नकम्।
महान्तं यदि वा स्तोकं नानाद्रव्यसमन्वितम्॥ 13-236-4(90754)
सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः।
अलङ्कृत्य यथायोगं सपताकं सवेदिकम्।
सभूषणं सवस्त्रं च शयनासनसंमितम्॥ 13-236-5(90755)
प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः।
भोजयित्वा च विधिवद्ब्राह्म्णानर्हतो बहून्॥ 13-236-6(90756)
स्वयं कृतोपवासश्च वृत्तशौचसमन्वितः।
दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम्॥ 13-236-7(90757)
एकस्यापि बहूनां वा दातव्यं भूतिमिच्छता।
तस्य दानफलं देवि अग्निष्टोमेन संयुतम्॥ 13-236-8(90758)
केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम्।
सवस्त्रकं सरत्नं च पुंसा गोदानकाङ्क्षिणा।
तदर्हाय प्रदातव्यं तस्य गोदानतः फलम्॥ 13-236-9(90759)
शरावांस्तिलसम्पूर्णान्सहिरण्यान्सचम्पकान्।
नृपोऽददद्ब्राह्मणाय सु पुण्यफलभाग्भवेत्॥ 13-236-10(90760)
एवं तिलमयं देयं नरेण हितमिच्छता।
नानादानफलं भूयः शृणु देवि समाहिता॥ 13-236-11(90761)
बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः।
पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः॥ 13-236-12(90762)
वस्त्रदानाद्वपुःशोभामलङ्कारं लभेन्नरः।
दीपदो बुद्धिवैशद्यं द्युतिशोभां लभेन्नरः॥ 13-236-13(90763)
राजपीडाविमोक्षं तु छत्रदो लभते फलम्।
दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः।
दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम्॥ 13-236-14(90764)
यानानि वाहनं चैव तदर्हाय ददन्नरः।
पादरोगपरिक्लेशान्मुक्तः श्वसनवाहवान्।
विचित्र रमणीयं च लभते यानवाहनम्॥ 13-236-15(90765)
प्रतिश्रयप्रदानं च तदर्हाय तदिच्छते।
वर्षाकाले तु रात्रौ वा लभेत्पक्षबलं शुभम्॥ 13-236-16(90766)
सेतुकूपतटाकानां कर्ता तु लभते नरः।
दीर्घायुष्यं च सौभाग्यं तता प्रेत्य गतिं शुभां॥ 13-236-17(90767)
वृक्षसंरोपको यस्तु छायापुष्पफलप्रदः।
प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः॥ 13-236-18(90768)
यस्तु सङ्क्रमकृल्लोके नदीषु जलहारिणाम्।
लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम्॥ 13-236-19(90769)
मार्गकृत्सततं मर्त्यो भवेत्सन्तानवान्नरः।
कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत्॥ 13-236-20(90770)
औषधानां प्रदानात्तु सततं कृपयाऽन्वितः।
भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः॥ 13-236-21(90771)
अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान्।
स च पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम्॥ 13-236-22(90772)
वेदगोष्ठाः शुभाः शाला भिक्षूणां च प्रतिश्रयम्।
यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम्॥ 13-236-23(90773)
प्रासादवासं विविधं यक्षशोभां लभेत्पुनः।
विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम्॥ 13-236-24(90774)
रम्यं तं दैवगोवाटं यः कुर्याल्लभते नरः।
प्रेत्य भावे शुभां जातिं व्याधिमोक्षं तथैव च॥ 13-236-25(90775)
एवं नानाविधं द्रव्यं दानकर्ता लभेत्फलम्॥ 13-236-26(90776)
उमोवाच। 13-236-27x(7645)
कृतं दत्तं यथा यावत्तस्य तल्लभते फलम्।
एतन्मे देवदेवेश तत्र कौतूहलं महत्॥ 13-236-27(90777)
महेश्वर उवाच। 13-236-28x(7646)
प्रेत्यिभावे शृणु फलं दत्तस्य च कृतस्य च।
दानं षङ्गुणयुक्तं तु तदर्हाय यथाविधिः।
यथाविभवतो दानं दातव्यमिति मानवैः॥ 13-236-28(90778)
बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽऽगमम्।
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम्॥ 13-236-29(90779)
इदं दत्तमिदं देयमित्येवं फलकाङ्क्षया।
यद्दत्तं तत्तदेव स्यान्न तु किञ्चन लभ्यते॥ 13-236-30(90780)
ध्रुवं देव्यत्तमे दानं मध्यमे त्वधमं फलम्॥ ॥ 13-236-31(90781)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः॥ 236 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-236-10 सहिरण्यान्सवस्त्रकानिति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|